वांछित मन्त्र चुनें

घृ॒त॒प्रुष॒: सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑र॒: सद॑न ऋ॒तस्य॑ । या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥

अंग्रेज़ी लिप्यंतरण

ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya | yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṁ yajamānāya śikṣatam ||

पद पाठ

घृ॒त॒ऽप्रुषः॑ । सौम्याः॑ । जी॒रऽदा॑नवः । स॒प्त । स्वसा॑रः । सद॑ने । ऋ॒तस्य॑ । याः । ह॒ । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । ताभिः॑ । ध॒त्त॒म् । यज॑मानाय । शि॒क्ष॒त॒म् ॥ ८.५९.४

ऋग्वेद » मण्डल:8» सूक्त:59» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:30» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4